अतिजरठकुसुम्भीकेसरोद्गाढरागस्नपित इव तदानीमुज्ज्वलो जीवलोकः॥ १००॥
आदौ पार्ष्णिप्रहारद्विगुणिततरसस्तिर्यगुत्क्षिप्ततुण्डान् पश्चात् कृष्टैः खलीनैर्लघुललितपदं नर्तयन्तस्तुरङ्गान्।
त्वत्सेवोत्कर्षतर्षादहमहमिकया सम्पतन्त्यश्ववाराः कार्पासैर्वारवाणैः परिवृतवपुषो वाहयोग्या महीषु॥ १०१॥
निर्याति प्रथमप्रचारचलितस्फारध्वनड्डिण्डिम— त्रस्ताधोरणदूरनाशितगजेनायं नभोवर्त्मना।
अभ्रद्वाज(र)घनान्तदोलितकरः स्वर्वाहिनीं गाहितुं रोधस्ताडन—केलि—रुग्ण—रदन—ग्रामाऽश्रिरैरावणः॥ १०२॥
मध्ये पङ्किनि पल्वलस्य विलुठन् पोत्री नयत्यातपा— नुष्णालुर्निभृतं हृदेषु महिषः शैवालमभ्यस्यति।
आकीर्णोषधिमूल—शीत—सुरभिश्वासानिलान्दोलन— प्रक्षीणोष्मणि लीयते वनगिरिश्वभ्रोदरे शल्यकः॥ १०३॥