तान्येतानि शिखण्डिताण्डवगुरूनम्भोधराम्बरे तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायासिनो भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः॥ ९७॥
सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः।
प्रच्छायसुलभनिद्राः दिवसाः परिणामरमणीयाः॥ ९८॥
अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपित—कपिकपोल—क्रोडताम्रस्तमांसि॥ ९९॥
समदतरुणहुणीगण्डशोणस्य पूष्णस्तरलिततिमिराणां तेजसामुद्गमेन।