तत् पायादुपलस्खलज्जलभवज्झङ्कारसंमूर्छितं गीतं लम्बितकर्णतर्णककुलैराकर्ण्य़मानं हरेः॥ ९१॥
२३. धीरललितासाधारणानुकूलोत्तमो यथा—(कुसं. ८.५१)
मुञ्च कोपमनिमित्तकोपने! सन्ध्यया प्रणमितोऽहमन्यया।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः॥ ९२॥
२४. धीरललितसाधारणानुकूलोत्तमो यथा—(विक्र. १.६)
गतं भयं मीरु! सुरारिसम्भवं त्रिलोकरक्षी महिमा हि वज्रिणः।
तदेतदुन्मीलय चक्षुरायतं निशावसाने नलिनीव पङ्कजम्॥ ९३॥
२५. धीरललितासाधारणदक्षिणोत्तमो यथा—(कुसं. ८.५२)
निर्मितेंषु पितृषु स्वयंभुवा या तनुः सुतनु! पूर्वमुज्झिता।
सेयमस्तमुदयं च सेवते तेन मानिनि! ममात्र गौरवम्॥ ९४॥