इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभीन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्वे वृषराजकेतनः॥ ९८॥
३०. धीरललितसाधारणधृष्टोत्तमो यथा—(रत्ना. ३.१४)
आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि! मूर्ध्ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात्॥ ९९॥
३१. धीरललितानुकूलमध्ययो यथा—(वेसं. २.९)
किं कण्ठे शिथीलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तष्वभिमुखं नाद्यापि सम्भाविता।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये! परिजनोपालम्भयोग्ये मयि॥ १००॥
३२. धीरललितदक्षिणमध्यमो यथा—
गच्छाम्यच्युत! दर्शनेन भवतः किं तृप्तिरुत्पद्यते ? किंत्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा।