उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारकुसुमान्यासेवते षट्पदः।
तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते॥ १०४॥
अपराह्णो यथा—(कुसं. ८.३३)
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम्।
आविभातचरणाय गृह्णते वारि वारिरुहरुद्धषट्पदम्॥ १०५॥
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः।
दंष्ट्रिणो वनवराहयूथया दष्टभङ्गुरबिसाङ्कुरा इव॥ १०६॥