भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 331 to 340 of 524 verses
अस्या स्मेरमिवाननं मधुरया कान्त्या कपोलस्थले मध्यस्थेऽपि जने विलोलवलितभ्रूलेखमालोकितम्।

यातं मन्दपदं घनस्य जघनस्यैवापारधेन यत् तत् साम्यप्रियमन्यथा मम मनोजातानि मा(सा) शङ्कते॥ ९८॥

(ताराकर्म —९)

अथ ताराकर्माणि(नाशा. ८.९६)— भ्रमणं, वलनं(गमनं), पातनं, चलनं, संप्रवेशनं(प्रवेशः), विवर्तनं, समुद्‍वृतं, निष्क्र/ष्क्रामः, प्राकृतं चेति।

१. तारयो(श्‍चक्षुः) पुटान्तर्मण्डलाऽऽवृत्तिः भ्रमणं; यथा—(नाशा. ८.१०२)

भ्रमिषु कृतपुटान्तर्मण्डलावर्ति चक्षुः प्रचलितचतुरभ्रूताण्डवैर्मण्डयन्त्या ।

करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि॥ ९९॥

२. त्र्यश्रं गमनं(वलनं) (नाशा. ८.९९); यथा—

मिथ्यामीलदारलपक्ष्मणि वलन्त्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गतरले तल्पोन्मुखं चक्षुषि।

पत्युः केलिमतः कथां विरमयन्नन्योन्यकण्डूयनैः कोऽयं व्याहरतीत्युदीर्य निरगात् सव्याजमालीजनः॥ १००॥

Showing 331 to 340 of 524 verses