श्रियः क्षीराम्भोधेर्निजविनयनम्रेण वपुषा शनैरुत्तिष्ठन्त्याः वलनलुलितेन्दीवरदृशः।
कटाक्षो मन्दाक्षस्तिमितवलितभ्रुर्हरिमनु प्रकीर्णः कालिन्दीलघुलहरिवृत्तिर्विजयते॥ १०४॥
७. समुन्नतिः समुद्वृत्तं (नाशा. ८.१०१); यथा— (रत्ना. २.१०)
कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्या नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निष्पन्दतामागता।
मद्दृष्टिः स्तिमितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने॥ १०५॥
८. निर्गमो निष्क्रमः (/निष्क्रामः) (नाशा. ८.१०१); यथा— (कुसं. ३.७१)
तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात॥ १०६॥
९. स्वाभाविकं प्राकृतं (नाशा. ८.१०१); यथा—(कुसं. ७.३६)
इत्यद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर्विधाता।