३. अधोऽवस्रंसनं पातनं (नाशा. ८.९८); यथा—(मेघ. ४६)
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्।
प्रेक्षिष्यन्ते गगनविषयाद् दूरमावर्ज्य दृष्टी— रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥ १०१॥
४. विलोलता चलनं; यथा—(कुसं. ३.५६)
सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं(र)द्विरेफम्।
प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती॥ १०२॥
५. अन्तःप्रवेशनं प्रवेशः (/संप्रवेशनम्) (नाशा. ८.९९); यथा—(हर्षच. १.२)
हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम्।
कालकूटविषस्पर्शजातमूर्च्छागमामिव॥ १०३॥
६. कटाक्षो विवर्तनं (नाशा. ८.१०१); यथा—