भर्ताऽसौ महसां विकासरभसोत्तानाङ्कपङ्केरुह— प्रस्थानारुणमण्डलं शिखरिणं प्रत्यञ्चमभ्यस्यति।
आनिम्नोन्नतभागपुञ्जितघनच्छायातपच्छेदभृत् प्रौढद्वीपि—नवीन—चर्मजरठं पृष्ठं च जातं भुवः॥ १०७॥
कान्तदूत्य इव कुङ्कुमताम्राः सायवर्णनमभित्वरयन्त्यः।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः॥ १०८॥
सूर्या(स्तमयो) यथा—(बारा. ३.१०)
माञ्जिष्ठीकृतपट्टसूत्रसदृशः पादानयं पुञ्जय— न्नध्यस्ताचललम्बिनीं परिणतिं स्वैरं ग्रहग्रामणीः।
वात्याचक्रविवर्तिताम्बुजरजश्छत्रायमाणः क्षणं क्षीणज्योतिरितोऽप्ययं स भगवानम्भोनिधौ मज्जति॥ १०९॥
वेदयत् पदमवेदयद् वधूर्बोधयत् कुमुदमब्जमर्दयत्।