क्वाप्यस्ताद्रिदरीषु पूष्णि पतिते सान्ध्ये च धाम्नि क्रमात् किञ्चित्किञ्चिदुदञ्चति प्रतिकलं मन्दासु दृक्छक्तिषु।
एताः पक्व—परूषक—च्छविमुषः पूर्वं ततस्त्वायता जायन्ते तमसा दिशः परिणमज्जम्बूफलश्यामलाः॥ ११४॥
ज्योतिषां पथि च दिङ्मुखेषु च क्ष्मातले च गिरिकन्दरासु च।
पश्य केनचिदिव प्रसार्यते कामिनीचिकुरमेचकं तमः॥ ११५॥
सङ्केतबन्धुर्विटनर्तकीनां निःष्यन्दसन्दर्भ इवाम्बरस्य।
पुरन्ध्रिम्मिल्लविनीत/लवर्णो निशान्धकारः पिबतीव विश्वम्॥ ११६॥