भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 361 to 370 of 1849 verses
व्रीडायोगान्नतवदनया सन्निधाने गुरूणां वद्धोत्कम्प्रस्तनकलशयोर्मन्युमन्तर्नियम्य ।

तिष्ठेत्युक्तं किमिव न तया यत् समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः॥ १०८॥

१. श्रीकृष्णो गा इव महिषीरप्यजाश्‍चापि चारयति स्मेति श्रीभागवतात् प्रसिद्धम्।

४०. धीरललितसाधारणदक्षिणमध्यमो यथा—

स्‍नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु— र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याऽद्य च।

इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः॥ १०९॥

४१. धीरललितासाधारणशठमध्यमो यथा—(कुसं. ५.५८)

यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थामिमं कथं जनम्।

इति स्वहस्तालिखिश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥ ११०॥

४२. धीरललितसाधारणशठमध्यमो यथा—(अमरु. १९)

Showing 361 to 370 of 1849 verses