पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना— न्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलः पातु वः।
यत्संस्कारकलानुवर्तनवशाद् वेलाच्छलेनाम्भसां यातायातमहर्निशं जलनिधेर्नाद्यापि विश्राम्यति॥ १०१॥
अनुबन्धो यथा—(किराता. १६.२७)
आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती।
सहे/भेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य॥ १०२॥
ततो धनुष्कर्षणमूढस्तमेकान्तपर्यस्तशिरस्त्रजालम्।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम्॥ १०३॥
सम्पर्को यथा—(किराता. १६.३०)