श्रृङ्गारादिभिर्मानसः क्रियाविद्वेष आलस्यम्। तस्य
णिद्दालस—परिघुम्मिर—तंस—वलंतद्ध—तारआलोआ।
कामस्स वि दुव्विसहा दिट्ठि—णिवाआ ससिमुहीए॥ ९७॥
(निद्रालस—परिघूर्णन—शील—तिर्यग्वलदर्धतारकालोकाः।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः॥)
आर्द्राः स्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिभरिण तत्क्षणमसौ मणिभूषणानाम्॥ ९८॥