घरिणि—घणत्थण—पेळळण—सुहेल्लि—पडिअस्स होंतपहिअस्स।
अवसउणंगारअ—वारविढि्ढदिअहा सुहावेन्ति॥ ९९॥
(गृहीणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशाकुनाङ्गारकवारविष्टिदिवसाः सुखापयन्ति॥)
सम्पर्को यथा—(मामा. १.३१)
अलसलुलितमुग्धस्निग्धनिस्स्पन्दमन्दैरधिक—विकसदन्तर्विस्मयस्मेरतारैः।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च॥ १००॥
अनुगमो यथा— उत्तिष्ठन्त्या रतान्ते॰ (अत्रैव १०.२१, १३.६२)
इन्द्रियाणां निमीलनं निद्रा। तस्या