कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकश्श्रियैव सभाजयन्।
पुनरिव शिशुर्भूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम्॥ ९३॥
प्रकृष्टा यथा—(उराच. ४.२२)
वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते सम्पृक्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि ! किमुत्पथैर्मम मनः पारिप्लवं धावति॥ ९४॥
अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरति॥ ९५॥
अनुगामिनी यथा—(उराच. ५.१७)
तदाकाराधिकाकारमालिङ्ग्य त्वां सुदुर्लभम्।