अथ वीथ्यङ्गानि — उद्घात्यकम्, अवलुण्ठितम्(अवलगितम्), अन्वस्यन्दितम्, असत्प्रलापः, नालिका, वाक्केलिः, अधिबलं, छलं, व्याहारः, त्रिगतं, गण्डः, मृदवं, प्रपञ्च इति।
पदानि त्वगतार्थानि तदर्थगतये नराः।
पर्यायैरवबोध्यन्ते तदुद्घात्यकमुच्यते॥ ८२॥
यथा मालतिकायां वीथ्याम्—मालतिका—
को विसमो संसारे को वा दुक्खेन पीरए तरिउं॥ ८३॥
(को विषमः संसारे को वा दुःखेन पार्यते तर्त्तुम्।)