भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 2002 verses
शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ।

इत्याह्लादकराखिलाङ्गि ! रभसान्निश्शङ्कमालिङ्ग्य मा— मङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय॥ ८०॥

(रत्‍ना. ३.११) इत्यादि।

१०(१.१०)

कोप-प्रसाद-जनितमधिक्षेपसमाश्रयम् ।

उक्तप्रत्युक्तमेवं स्याल्लास्याङ्गं दशमं त्विह॥ ८१॥

(नाशा. १९.१२३)

यथा रत्‍नावल्यां तृतीयेऽङ्के राज्ञा प्रत्यभिज्ञातायां वासवदत्तायां 'प्रिये वासवदत्ते' इत्याद्यभिहिते वासवदत्ता सकोपमाह,

'अज्जउत्त, मा एव्वं भण। अदिक्कंदाइं दाणिं एदाइं अक्खराइं'। (आर्यपुत्र, मा एवं भण। अतिक्रान्तानीदानीमेतान्यक्षराणि।) एवमुक्ते तदा विज्ञापनानन्तरं पादयोः पतन्तं राजानं दृष्ट्वा वासवदत्ता पुनरनुभावान्नायकप्रसादमुररीकृत्य प्रविष्टाह— 'कंचणमाले, तं तहा चलणणिपडिदं अज्जउत्तं अवधीरिअ आअच्छंतीए मए अदिनिठ्ठुरं एव्व किदं। दाणिं सअं ता गदुअ अलक्खिदा एव्व कंठे गेण्हिअ पसादइस्सं।' (रत्‍ना. ३.१७)

(काञ्चनमाले, तं तथा चरणनिपतितमार्यपुत्रमवधीर्यागच्छन्त्या मयातिनिष्ठुरम् एव कृतम्। इदानीं स्वयं तं गत्वा अलक्षितैव कण्ठे गृहीत्वा प्रसादयिष्ये।) इत्यादि।

Showing 341 to 350 of 2002 verses