कुसुमशरस्तरलाक्षीवियोगदुःखाम्बुधिश्चैव॥ ८४॥
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥ ८५॥
इति सूत्रधारेण पठिते प्रविश्य संभ्रान्तः
पारिपार्श्वकः— 'भाव, शान्तं पापं, प्रतिहतममङ्गलम्।'
सूत्रधारः— ननु शरत्समयवर्णनाशंसया हंसान् धार्तराष्ट्रानिति व्यपदिशामि।
पारिपार्श्वकः— भाव, न खलु न जाने। किन्त्वमङ्गलत्वादस्य वो वचसः कम्पितमिव मे हृदयम् इति।