भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 371 to 380 of 2002 verses
यत्रान्यस्मिन् समावेश्य कार्यमन्यत् प्रसाध्यते।

तच्‍चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः॥ ८६॥

(नाशा. १८.१०९)

यथा रत्‍नावल्यां द्वितीयेऽङ्के

सुसङ्गता—सहि, जस्स किदे तुमं आअदा सो अअं चिट्ठदि। (सखि, यस्य कृते त्वमागता सोऽयं तिष्ठति।)

सागरिका— (सासूयं) सहि, कस्स किदे अहं आअदा ? (सखि, कस्य कृतेऽहमागता ?) सुसङ्गता—(विहस्य), चित्रफलकस्य कृते आगताहमिति प्रतिपादयन्त्या छायान्तरेण राजार्थोऽपि प्रतिपादित इत्यवलगितम्।

१३.(२.३)

आकाङ्‍‌क्षिते तु किस्मिंश्चिच्छुभाशुभसमुत्थिते।

कौशलादुच्यतेऽन्योऽर्थस्तदवस्यन्दितं भवेत॥ ८७॥

(नाशा. १८.११०)

Showing 371 to 380 of 2002 verses