रावणः — 'प्रायः श्रुतमेव भवद्भिः। यथा कलत्रमात्रसाधनोऽसौ तापसः, तदपहार एव तावन् निरूप्यताम्। न च कलत्रापहरणादृते पुरुषस्यापरं परिभवस्थानमस्ति। तत्र च मारीचेन साहाय्यकं क्रियमाणमिच्छामि।
मारीचः— स्वामिन्, जीवतो रामस्य परिभव इत्यशक्यमेतत्। न खलु तापस इति मा तमवज्ञातुमर्हति देवः। अन्यदेव किमपि वस्त्वन्तरं तत्।
रावणः— (सक्रोधम्) आः, किन्नाम वस्त्वन्तरं तत् ? मूढ !
युक्त्यैव क्षत्रबन्धोः परिभवममसमं जीवतः कर्तुमिच्छन् मायासाहाय्यके त्वं निपुणतर इति प्रार्थये, नासमर्थः।
यच्चान्यत् तत्र वज्रप्रहतिमसृणितस्फारकेयूरभाजः सज्जास्त्रैलोक्यलक्ष्मीहठहरणसहा बाहवो रावणस्य॥ ९१॥
यत्रात्मनः परस्य च वचनं स्यादुत्तरोत्तरप्रभवम्।
अन्योन्यार्थविशेषकमधिबलमिति तद् बुधैर्ज्ञेयम्॥ ९२॥
यथा — कृत्यारावणे—'हा भ्रातर्लक्ष्मण परित्रायस्व मां परित्रायस्वं' इति श्रुत्वा सीतावेषधारिणी शूर्पणखा मोहमुपागता, तस्यां च मूढायां