न रौद्रकर्म करुणः कारणं करुणस्य तत्।
एतेन वीरकर्मापि न भवेदद्भुतो रसः॥ ८०॥
हेतुत्वं तु तदुत्पत्तौ तस्यापि न निवार्यते।
बीभत्सदर्शनाद् यः स्यात् स भवेत् तु भयानकः॥
इत्यालम्बनहेतुभ्यो विभावेभ्यो न भिद्यते॥ ८२॥
अतो यत्किंचिदेतद् 'भावेभ्यो रसा, रसेभ्यो भावा, रसेभ्यश्च रसा' इति।
अप्रातिकूलिकतया मनसो मुदादे— र्यस्संविदोऽनुभवहेतुरिहाभिमानः ।