अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथावृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विशदकरुणैरार्यचरितै— रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥ ८६॥
अथ यथेन्दूदये समुद्रः क्षुभ्यति, यथाऽपथ्यसेवया व्याधिरभिवर्धते, यथानार्यसन्निधेः साधुः सुतरां दुःखाकरोति, तथा तेभ्यस्तेभ्य उद्दीपनविभावेभ्य— स्तत्तदनुभवसंस्कारयोगिनो मनसस्तत्तद्भावाभिवृद्धये ते ते विकारा उपजायन्ते। ते तत्क्षोभे यथा—(रघु. ८.४३)
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ ८७॥
तदभिवृद्धौ यथा—(कुसं. ४.२६)
तमुदीक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते॥ ८८॥
तत्प्रातिकूल्ये यथा—(विक्रमो. २.६)