इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति।
किमुत मलयवातोन्मूलितापाण्डुपत्रै— रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ८९॥
अथ यथैकस्यापि भूरुहादेः काण्डस्कन्धशाखाविटपादयः प्रकाराः, पल्लवपत्रपुष्पफलसम्पदादयो विकाराः, एकस्याप्यम्भसः प्रवाहावर्तबुद्बुदतरङ्गादयो विवर्ताः, मुक्ताफलफेनलवणकारकादयो विपरिणामाः, एकस्यापि ध्वनेस्तारमध्यमन्द्र— क्रुष्टादयो भेदाः, वर्णपदवाक्यकूजितादयो अवच्छेदाः, एकस्यापि वायोः प्रवहावहपरिवहादयः स्कन्धाः प्राणापानव्यानादयोऽनुबन्धाः तेभ्यस्तेभ्य उपाधिभ्यो जायन्ते, तथैकस्यापि रतिक्रोधशोकादेस्तेभ्यस्तेभ्य उपाधिभ्यस्ते तेऽनुभावा व्यभिचारिणश्चाभ्यन्तरा बाह्याश्च व्यवस्थासम्प्लवाभ्यामुपप्लवन्ते। तत्राभ्यन्तरा व्यभिचारिषु चिन्तौत्सुक्यावेगवितर्कादयः, बाह्याः स्वेदरोमाञ्चाश्रुवैवर्ण्यादयः; अनुभावेष्वाभ्यन्तराः स्मरणेच्छाद्वेषप्रयत्नाः, बाह्या मनोवाम्बुद्धिशरीरारम्भाः, त उभये अप्यनुक्रियमाणाः सात्त्विकाङ्गिवाचिकचित्रसामान्याभिनयव्यपदेशं लभन्ते। तेषु
रतिप्रभवा यथा—(कुसं. ३.६८)
विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥ ९०॥
क्रोधप्रभवा यथा—(पृ. ८३५)
प्रत्यग्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रक्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याकृतशात्रवप्रतिकृतेरन्तः शुचा मुह्यतो हा वत्सेति गिरः स्फुरन्ति, न पुनर्निर्यान्ति कण्ठाद् बहिः॥ ९१॥
शोकप्रभवा यथा—(मामा. ९.२०)