यद्धास्यमहास्यं वा तत् त्रिगतं नाम विज्ञेयम्॥ ९७॥
यथा इन्दुलेखायां वीथ्याम् राजा—वयस्य!
किं नु कलहंसनादो मधुरो मधुपायिनां तु झङ्कारः।
हृदयगृहदेवतायास्तस्या नु सनूपुरं चरणम्॥ ९८॥
यत्रानुदात्तवचनं त्रिधा विभक्तं भवेत् प्रयोगे तु।
हास्यरससंप्रयुक्तं तत् त्रिगतं नाम विज्ञेयम्॥ ९९॥
यथा पुल्लसके रूपके— तरलं हि भट्टा तुंह एअं अवत्थं सोऊण चिन्ता अआमाउळहराओ आगदेहिं सिधत्थवरेण्णो x x x सुरुषच मालइआए मालं सअंवरत्थेण विरइअं गइऊण एसा देवी इह एव्वायद्दे त्ति। x x x भर्तः! तवेमामवस्थां श्रुत्वा चिन्ता (?) x x x राजा आगत मालतिकाया मालां स्वयंवरत्वेन विरचितं ग्रहीतुम् एषा देवी इहैवागता इति।