विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम्।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु॥ ११६॥
गन्धे जाता यथा—(कुसं. १.९)
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥ ११७॥
वान्ति कह्लारसुभगाः सप्तच्छदसुगन्धयः।
शेफालीकलिकाकोशकषायामोदिनोऽनिलाः॥ ११८॥
असेसइह्लादं सदरुंमिइ अणेहिं मुहेहिं।