भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 481 verses
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः॥ १२२॥

अनुबन्धिनी यथा—(रघु. ९.६३)

व्याघ्रानभीराभिमुखोत्पतितान् गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान्।

शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान्॥

प्रकृष्टा यथा—(रघु. ९.६९)

इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम्।

परिवृद्धरागमनुबद्धसेवया मृगया जहार चतुरेव कामिनी॥ १२४॥

संपृक्ता यथा—(रघु. ९.६७)

अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार।

सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥ १२५॥

Showing 441 to 450 of 481 verses