प्रकृष्टा यथा—(उराच. ६.१८)
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्ततादा मनो— र्दृप्तानां दमनाय दीपितनिजक्षात्रप्रतापाग्निभिः।
आदित्यैर्यदि विग्रहो नृपतिभिः सद्यो ममैतत् ततो दीप्ताग्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥ १२९॥
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः॥ १३०॥
अनुगामिनी यथा—(विक्रमो. २.१६)
मया नाम जितं यस्मात् त्वयाऽयं समुदीर्यते।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम्॥ १३१॥
सैष भावो रतिर्नाम कामकल्पद्रुमाङ्कुरः।