अनुगामिनी यथा—(शाकु. २.६)
गाहन्तां महिषां निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।
विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥ १२६॥
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री— रविरतगुणगुञ्जत्कोटिना कार्मुकेण।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना— मुपरि शरतुषारं कोऽप्ययं वीरपोतः॥ १२७॥
हेरम्बदन्तमुसलोल्लिखितैकभित्ति वक्षो विशालविशिखव्रणलाञ्छितं मे।
रोमाञ्चकञ्चुकितमद्भुतवीरलाभात् सत्यं ब्रवीमि परिरब्धुमिवेच्छति त्वाम्॥ १२८॥