अङ्घ आहरपुरओणअअ वसागंधगब्भिमा सिहिचाळा(?)॥ ११९॥
मूले वृन्तं तदनु चिपिटं कुब्जपृष्ठं च किञ्चिद्— व्यावृत्तान्तच्छदमथ ततः श्लिष्टमुत्पिञ्जलाग्रम्।
वातोद्धूतादवनमुखं बन्धिनीमुक्तसन्धे— र्गन्धान्धाळिस्खलितकुसुमं पाटलं पाटलायाम्(?)॥ १२०॥
शून्यग्रामटिकोपकण्ठरचितक्षुद्रैककूपीपयः— पर्यासाहितसेकशाकिकहरित्कच्छप्रदेशोद्भवाः।
अस्मिन् हन्त ! हरन्ति हालिकरतक्रीडाविमर्दस्फुटत्— पक्वोर्बारुकगन्धगन्धितजरद्गोमायवो वायवः॥ १२१॥
(२.७) आभ्यासिकी(/साम्प्रयोगिकी)
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः।