भूयो भूयस्सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था।
साक्षात् कामं नवमिव रतिर्मालती माधवं यद् गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति॥ १२०॥
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृष्टिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लब्यं मम तावदीदृशमहो स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥ १२१॥
दृष्टश्रुतानुमितेषु प्राप्तिपरिहारार्थमुपायपरिभावना मनसश्चिन्ता। तस्या जन्म यथा—
सन्ध्या रागवती स्वभावकुटिला गङ्गा द्विजिह्वः फणी वक्रोऽन्तर्मलिनः शशी च सततं जात्यैव मूर्खो वृषा।
इत्थं दुर्जनसङ्कुले पतिगृहे वासः कथं सह्यतां देव्याः पाणिनिविष्टमास्यमसकृच्चिन्तान्वितं पातु वः॥ १२२॥