विस्त्रम्भादुपसृज्य पीडन—नमत्प्रोत्तुङ्गपीनस्तने श्वासावेग विकम्पिना स्तनयुगेनापीडिते वक्षसि।
ईषन्मीलितनेत्रया श्लथभुजापाशं चिरादागतो नाधन्यः परिरभ्यते दयितया जाग्रत्स्वपत्या निशि॥ ११५॥
चतुर्विंशतिरित्येते भावा हर्षादिसंज्ञकाः!
(संप्रयोगाश्रयाः प्रोक्तास्तैस्तैर्युक्तैर्निदर्शनैः)॥१
अतः परं प्रवक्ष्यन्ते विप्रलम्भसमाश्रयाः।
चतुर्विंशतिरुत्कण्ठाचिन्तास्मृत्यादयोऽपरे॥ ११६॥
तत्र प्रायेण विप्रलम्भाश्रयभावचतुर्विंशादिकं उदाह्नियन्ते। तत्र मनसोऽशान्तिरुत्कण्ठा। तस्या