मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः॥ १११॥
अनुबन्धो यथा—(मुरा. ३.२१)
प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्न/कल्यदीपप्रभाणा— मात्मव्यापारगुर्वी जनितजललवा जृम्भितैः स्वाङ्गभङ्गैः।
नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवाळोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥ ११२॥
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगान् उदधिमहति राज्ये काव्यवद् दुर्विगाहे।
गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम्॥ ११३॥
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विधूतनिद्रः।
अरमत मधुरस्वराणि श्रृण्वन् विहगविकूजितवन्दिमङ्गलानि॥ ११४॥