कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटय— स्तथाऽपि क्लिष्टात्मा क्षणमपि न धृष्टो विरमति॥ १२०॥
एवमन्येऽपि विज्ञेया भेदाः संभेदतो मिथः।
चतुर्णामपि लक्ष्येषु नायकानां मनीषिभिः॥ १२१॥
धीरोदात्तादिभेदेन चतुरश्चतुरोऽपि च।
चतुश्शतविधावन् वेत्ति नायकान् स कविः कविः॥ १२२॥
परिग्रहप्रवृत्तिभ्यां गुणप्रकृतियोगतः।
चातुर्विध्याच्च धैर्यस्य नायकत्वं नियम्यते॥ १२३॥
इति निगदित एष नायकानामसदृशभङ्गिमनोहरः प्रपञ्चः।
निजनिजपटुभङ्गिमङ्गनानां बहुबिधभेदवतीमतोऽभिधास्ये॥ १२४॥१