भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 1849 verses
अतिथिभिर्गतमेव गृहागतैरपथिकागमना च निशीथिनी।

तदधुना प्रतिजागृहि पुत्रकान् प्रविश वेश्‍म कुटुम्बिनि! शेमहे॥ ११७॥

धीरोद्धतप्रशान्तो यथा—(बारा. २.६३)

अतिथिरसि किमन्यद् देवदेवो गुरुस्ते वयमपि च सदाराः साग्‍नयोऽस्मिन् वसामः।

तदनु/पसर गृहान्नस्त्वं भृगोः पुत्रभाण्डं वटुपरिषदभीष्टास्सन्त्वनध्यायचेष्टाः॥ ११८॥

धीरप्रशान्तमध्यमो यथा—

विषयपतिरलुब्धो धेनुभिर्धाम पूतं कतिचिदभिमतायां सीम्‍नि सीरा वहन्ति।

शिथिलयति न भार्या चातिथेयीं सपर्यामिति सुकृतमनेन व्यञ्जितं नः फलेन॥ ११९॥

धीरललितकनिष्ठो यथा—

शतं वारानुक्तः प्रियसखि! वचोभिः सुपरुषैः सहस्त्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।

Showing 391 to 400 of 1849 verses