अतिथिभिर्गतमेव गृहागतैरपथिकागमना च निशीथिनी।
तदधुना प्रतिजागृहि पुत्रकान् प्रविश वेश्म कुटुम्बिनि! शेमहे॥ ११७॥
धीरोद्धतप्रशान्तो यथा—(बारा. २.६३)
अतिथिरसि किमन्यद् देवदेवो गुरुस्ते वयमपि च सदाराः साग्नयोऽस्मिन् वसामः।
तदनु/पसर गृहान्नस्त्वं भृगोः पुत्रभाण्डं वटुपरिषदभीष्टास्सन्त्वनध्यायचेष्टाः॥ ११८॥
विषयपतिरलुब्धो धेनुभिर्धाम पूतं कतिचिदभिमतायां सीम्नि सीरा वहन्ति।
शिथिलयति न भार्या चातिथेयीं सपर्यामिति सुकृतमनेन व्यञ्जितं नः फलेन॥ ११९॥
शतं वारानुक्तः प्रियसखि! वचोभिः सुपरुषैः सहस्त्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।