भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 719 verses
यथा वा—(पृ. ६२७)

सखि ! स विजितो वीणाद्यूते कयाऽपि परस्त्रिया पणितमभवत् ताभ्यां तस्मिन् निशाललितं ध्रुवम्।

कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येऽपीन्दौ प्रियेण विलम्व्यते॥ १२४॥

अपररात्रो यथा—(माघ. ११.६)

क्षणशयिताविबुद्धाः कल्पयन्तः प्रयोगा— नुदधिमहति राज्ये काव्यवद् दुर्विभागे/ दुर्विगाहे।

गहनमपरात्र—प्राप्‍त—बुद्धि—प्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम्॥ १२५॥

यथा वा—(माघ. ११.४)

प्रहरकमपनीय स्वं निदिद्रासतोच्‍चैः प्रतिपदमुपहूतः केनचिज्जागृहीति।

मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः॥ १२६॥

रात्रिपरावृत्तिर्यथा—(माघ. १०.९१)

Showing 391 to 400 of 719 verses