सखि ! स विजितो वीणाद्यूते कयाऽपि परस्त्रिया पणितमभवत् ताभ्यां तस्मिन् निशाललितं ध्रुवम्।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येऽपीन्दौ प्रियेण विलम्व्यते॥ १२४॥
अपररात्रो यथा—(माघ. ११.६)
क्षणशयिताविबुद्धाः कल्पयन्तः प्रयोगा— नुदधिमहति राज्ये काव्यवद् दुर्विभागे/ दुर्विगाहे।
गहनमपरात्र—प्राप्त—बुद्धि—प्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम्॥ १२५॥
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः॥ १२६॥
रात्रिपरावृत्तिर्यथा—(माघ. १०.९१)