ऋतूपकरणैरेभिरितिहासोपवर्णनैः ।
देशकालोसेवाभिश्चित्तजन्मा प्रदीप्यते॥ १३१॥
नातः परतरं पुष्पधनुषस्तीक्ष्णमायुधम्।
ऋतूपकरणादीनां यदेतद् रामणीयकम्॥ १३२॥
ऋतुरुपकरणं तथेतिहासः कथितमिदं सह देशकालभेदैः।
पृथगनभिहितं कलाविचारप्रभृतिकमल्पमथोपदर्शयामः॥ १३३॥
तत्र चतुष्षष्टिर्मूलकलाः। तासु
कर्माश्रयाश्चतुर्विंशतिः २४