विलोकनेनैव तवामुना मुने ! कृतः पवित्रोऽस्मि निवर्हितांहसा।
तथाऽपि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते ?॥ १२१॥
६. सहसा दृष्टमालोकितं यथा—(किराता. १३.३५)
तत्र कार्मुकधरं महाभुजं पश्यति स्म सहसा वनेचरम्।
सन्निकाशयितुमग्रतः स्थितं शासनं मकरकेतुविद्विषः॥ १२२॥
७. पार्श्वतो दृष्टं प्रलोकितं (नाशा. ८.१०९) यथा—(कुसं. ३.६९)
अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद् बलवन्निगृह्य।
हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम्॥ १२३॥
८. ऊर्ध्वं दृष्टमुल्लोकितं; (नाशा. ८.१०९) यथा—(कुसं. ५.२०)
शुचौ चतुर्णां ज्वलतां शुचिस्मिता हविर्भुजां मध्यगता सुमध्यमा।