सअरदंसणहित्था आक्खित्तोसरिअवेवमाणसरीरा।
सहसा लिहिअ व्व ठिआ णिप्फंदणिराअअलोअणा कविणिवहा॥ १२७॥
(सागरदर्शनत्रस्ताः आक्षिप्तापसृतवेपमानशरीराः।
सहसा लिखिता इव स्थिता निस्स्पन्दनिरायतलोचनाः कपिनिवहाः॥)
सरभसहरकण्ठग्राहसंमीलिताक्षी विषमविषवितापा मूर्च्छिता वेति सास्रे।
शरवणभववक्त्रे वीक्षितं लोलतारं जयति खलु भवान्याः सालसं सस्मितं च॥ १२८॥
पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारिका नासाग्रानुगता च करुणा (नाशा. ८.५०); यथा—
ताराप्रेङ्खणवीतबाष्पपयसो यत्नेन सञ्चारिताः सीतायाः सविधस्थितेषु च मृगद्वन्द्वेषु वीरुत्सु च।
बाले वल्कलचीरवासिनि जवादुल्लङ्घ्य गम्भीरतां सौमित्रौ त पतन्ति वत्सलतया पुत्रस्य ते दृष्टयः॥ १२९॥