तह मआ पडि दिअ. . . . . . . अम्मि णिसण्णा॥ १३२॥
निकुञ्चितपुटापाङ्गा घृणोपप्लुततारका संश्लिष्टस्थिरपक्ष्मा च बीभत्सा (नाशा. ८.५३) यथा—
त्रिशूलभिन्नान्धकरक्तधारामास्वादयन्त्यां युधि कालरात्रौ।
हरार्धदेहे मृडतां मृडान्यां दृष्टिर्घृणाघूर्णिततारका वः॥ १३३॥
'व्याकोशा स्नेहमधुरा स्मितताराभिलाषिणी' सानन्दभ्रूक्षता च स्निग्धा (नाशा. ८.५६);
विलुलितमतिपुरैर्बाष्पमानन्दशोक— प्रभवमव/पसृजन्ती पक्ष्मलोत्तानि दीर्घा।
स्नपयति हृदयेशं स्नेहनिस्स्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः॥ १३४॥
चला हसितगर्भा विशत्तारा निर्निमेषा किञ्चिदाकुञ्चिता च हृष्टा (नाशा. ८.५५)।