साश्चर्योद्वृत्ततारका आकुलितपक्ष्माग्रा विकसिता समा अद्भुता (नाशा. ८.५१); यथा—
तदेतदसितोल्लसद्द्युतिशरीरमस्मिन्नभू— न्ममातिदृढपीडनैरमिततृप्तिरालिङ्गकैः ।
यदुल्लसति विस्मयाद् बत निपीतवत्यः पुरा नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥ १३०॥
क्रूरतारका भ्रकुटिकुटिला च रौद्रा (ना.शा. ८.५१); यथा—(किरा. १४.४९)
पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः।
सरोषमुल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी॥ १३१॥
दीप्ता विकसिता क्षुब्धा गम्भीरा समतारकोत्फुल्लमध्या च वीरा (ना.शा.८.५३) ; यथा—
ता से चिर मज्झ थेणिहु अ कअं।