नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस— श्रोत्रैः सव्रणमुग्धचारणवधूदन्तच्छदायसिनः।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणगीतिक्रम— स्यालोलाङ्गुलिरुद्धमुक्तसुषिरश्रेणीरवा वेणवः॥ १३५॥
सद्यस्ताण्डवितभ्रु विभ्रमवलद् व्यालोलदोःकन्दली— हेलोदञ्चितपीवररस्तनयुगं प्रेंखत्कटाक्षच्छदम्।
किञ्चित्कुञ्चितपादापद्ममवतात् तल्लास्यलीलायितं पार्वत्याः पुरतः कलागमगुरोः खण्डेन्दुचूडामणेः॥ १३६॥
बाहूत्क्षेपसमुल्लसत्कुचतटं प्रान्तस्फुटत्कञ्चुकं गम्भीरोदरनाभिमण्डलगलत्स्वेदावलीविभ्रमम् ।
रुद्राण्या महिषासुरव्यतिकरव्यायामरम्यं वपुः पर्यस्तावधि सन्धिबन्धुरलसत्केशोच्चयं पातु वः॥ १३७॥
त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमपि।