इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा वल्लीवान्तर्लता परिशोषिणी।
वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १३३॥
झिज्जंति वलंति समूससंति सिज्जंति कंटइज्जंति।
अंगाइ तस्स पुरओ ण आणिमो कह हु विज्जंति॥ १३४॥
(जीर्यन्ते वलन्ति समुच्छ्वसन्ति स्विद्यन्ति कण्टकीयन्ति।
अङ्गानि तस्य पुरतो न जानीमः कथं खलु विद्यन्ते॥)
मुग्धा यथा—(काव्याद. २.१४३)
मानयोग्यां करोमीति प्रियस्थाने कृतां सखीम्।