बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ १३५॥
दंतक्खअं कओले कअग्गहुव्वेल्लिअं च धम्मिल्लं।
णिद्दालसं च दिट्ठिं, बहुएॅ बहुमण्णइ अणंगो॥ १३६॥
(दन्तक्षतं कपोले कचग्रहोद्वेल्लितं च धम्मिल्लम्।
निद्रालसां च दृष्टिं वध्वा बहुमन्यते अनङ्गः॥)
प्रगल्भा यथा—(काव्याद. २.२६१)
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत्॥ १३७॥
पुनर्भूरक्षता, क्षता, यातायाता यायावरा च।