भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 451 to 460 of 719 verses
अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं, मकरमुपरिष्टाच्‍च लिखति॥ १३८॥

६. पुस्तकर्म यथा—(माघ. ३.५१)

चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम्।

मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने॥ १३९॥

७. पत्रच्छेद्यं यथा—

निष्पन्नस्तिलकोऽयमेणनयने ! प्रायेण (कास्तूरिका)— मेषा पत्रलतास्य तस्य सदृशी किं नाम नो निर्मिता ?।

यस्याशाविजये हिमाद्रिमभितः सैन्ये स X X थ X X ग ग ग प्रियैरिति भटी(?) लोकस्य भूर्जेः(?) त्वभूत्॥ १४०॥

८. लिपिज्ञानं यथा—

शर्वाणीशिवयोर्ललाटमभितः कस्तूरिकाः मूर्धजैः न्यस्ता मण्डनकौशलाद् विजयया वाणी पदैश्चाटुभिः।

अन्योन्यानुननयप्रपञ्चमधुरा दृश्‍यात्मदर्शोदरे वर्णाली विधिनिर्मिताक्षरततिच्छाया सुखायास्तु वः॥ १४१॥

Showing 451 to 460 of 719 verses