कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥ १४५॥
अनतितरलबन्धस्वेदमद्यादिगन्धश्चलनरटनलोलस्नेहसीमन्तिनीनाम्।
अदृढदहनपाकं स्थालिकानामुदञ्चन् मदयति हृदयान्तर्मांसलो मांसगन्धः॥ १४६॥
१४. रञ्जनविधानं(/ज्ञानं) यथा १—(राघवः)
सहि णो पुहाइ परिपीडिअस्स मलमग्गणिपड्डिओ गहिओ।
कत्ते अणोविअ सुत्थो वहइ हसिरी पोपरा . . . स्स (?)॥ १४७॥