क्रमेण सद्भर्तृचतुष्टयादिति प्रसूय साऽष्टौ तनयांस्तनूदरी।
दरीषु विन्ध्याद्रिवरस्य माधवी महत् तपस्तप्तुमथोपचक्रमे॥ १४१॥
सामान्या ऊढा, अनूढा, स्वयंवरा, स्वैरिणी, वेश्या च।
तुषारलेशाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे॥ १४२॥
कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत् क्वचिदस्ति तत् परिणमत्यस्मासु शक्रादपि।
कन्यायाश्च परार्थतैव हि मता, तस्याः प्रदानादहं बन्धुर्वो भविता, पुलस्त्यपुलहप्रष्ठाश्च सम्बन्धिनः॥ १४३॥