सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १४४॥
आद्ये जग्मुषि ताम्रचूडरहि/सिते श्रोत्रं प्रबुद्धा दरात्/जवात् किञ्चिद् वासवदिङ्मुखं प्रविकसद् दृष्ट्वा गवाक्षाध्वना।
सन्त्रासेन समीरिता प्रियतमप्रेम्णा निरुद्धा शनै— रुत्थानोपनिवेशनानि कुरुते कल्पे/तल्पे मुहुः स्वैरिणी॥ १४५॥
वेश्या तु गणिका, विलासिनी रूपाजीवा च।
ततजातिषु तुम्बुरुर्गरुर्गुरुकल्पः सुषिरेषु नारदः।
विततेषु विशेषहेतवो मम विश्वावसुपादपांसवः॥ १४६॥