भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 481 to 490 of 841 verses
इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत्।

इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः॥ १३५॥

अनुगमो यथा—(मवीच. २.४६)

अमृताध्मातजीमूतस्‍निग्धसंहननस्य ते।

कुठारः कम्बुकण्ठस्य कष्टं कण्ठे लुठिष्यते॥ १३६॥

(३१. अमर्षः)

कृतापराधेषु क्रोधाप्रशान्तिरमर्षः। तस्य

जन्म यथा—(मवीच. २.९)

अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्‍तिः प्रभोः प्रत्युत दुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया।

उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्‍नं च जगत्पतिर्दशमुखो दृप्‍तः कथं मृष्यते॥ १३७॥

Showing 481 to 490 of 841 verses