इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत्।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः॥ १३५॥
अमृताध्मातजीमूतस्निग्धसंहननस्य ते।
कुठारः कम्बुकण्ठस्य कष्टं कण्ठे लुठिष्यते॥ १३६॥
कृतापराधेषु क्रोधाप्रशान्तिरमर्षः। तस्य
अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत दुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया।
उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो दृप्तः कथं मृष्यते॥ १३७॥