भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 491 to 500 of 841 verses
अनुबन्धो यथा—(ध्वन्यालोक ३)

न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः।

धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः॥ १३८॥

प्रकर्षो यथा—(वेसं. ३.२३)

तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य त्यक्त्वा शङ्कां खलु निदधतः पाणिमस्योत्तमाङ्गे।

अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना— तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते॥ १३९॥

सम्पर्को यथा—(मवीच. २.२९)

यत्क्षत्रियेष्वपि पुनस्स्थितमाधिपत्यं तैरेव संप्रति धृतानि पुनर्धनूंषि।

उन्माद्यतां भुजमदेन मयाऽपि तेषामुच्छृङ्खलानि चरितानि पुनश्श्रुतानि॥ १४०॥

अनुगमो यथा—(वेसं. १.८)

Showing 491 to 500 of 841 verses