भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 471 to 480 of 841 verses
जन्म यथा—(कुसं. ३.७१)

तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्य/क्षमुखस्य तस्य।

स्फुरन्‍नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात॥ १३२॥

अनुबन्धो यथा—(वेसं. ३.३२)

यो यश्शस्र बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।

यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्‍च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ १३३॥

प्रकर्षो यथा—(वेसं. ३.४७)

कृष्टा येन विलोलकेशनिवहा पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः।

यस्योरस्स्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्भ‍ुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः॥ १३४॥

सम्पर्को यथा—(उराच. २.१३)

Showing 471 to 480 of 841 verses